|
|
 |
 |
|
|
६ भीष्मपर्व.jpg)
॥ श्रीः ॥
6.105. अध्यायः 105
Mahabharata - Bhishma Parva - Chapter Topics
युधिष्ठिरादियुद्धवर्णनम् ॥ 1 ॥

Mahabharata - Bhishma Parva - Chapter Text
सञ्जय उवाच। 6-105-0x(4196)(43504)
दृष्ट्वा भीष्मं रणे युद्धं पाण्डवैरभिसंवृतम्।
यथा मेघैर्महाराज तपान्ते दिवि भास्करम् ॥ 6-105-1(43505)
दुर्योधनो महाराज दुःशासनमभाषत।
एष शूरो महेष्वासो भीष्मः शूरनिषूदनः ॥ 6-105-2(43506)
छादितः पाण्डवैः शूरैः समन्ताद्भरतर्षभ ।
तस्य कार्यं त्वया वीर रक्षणं सुमहात्मनः ॥ 6-105-3(43507)
रक्ष्यमाणो हि समरे भीष्मोऽस्माकं पितामहः ।
निहन्यात्समरे यत्तान्पाञ्चालान्पाण्डवैः सह ॥ 6-105-4(43508)
तत्र कार्यतमं मन्ये भीष्मस्यैवाभिरक्षणम् ।
गोप्ता ह्येष महेष्वासो भीष्मोऽस्माकं महाव्रतः ॥ 6-105-5(43509)
स भवान्सर्वसैन्येन परिवार्य पितामहम् ।
समरे कर्म कुर्वाणं दुष्करं परिरक्षतु ॥ 6-105-6(43510)
सञ्जय उवाच। 6-105-7x(4197)
स एवमुक्तः समरे पुत्रो दुःशासनस्तव।
परिवार्य स्थितो भीष्मं सैन्येन महता वृतः ॥ 6-105-7(43511)
ततः शतसहस्राणां हयानां सुबलात्मजः ।
विमलप्रासहस्तानामृष्टितोमरधारिणाम् ॥ 6-105-8(43512)
दर्पितानां सुवेगानां बलस्थानां पताकिनाम् ।
शिक्षितैर्युद्धकुशलैरुपेतानां नरोत्तमैः ॥ 6-105-9(43513)
नकुलं सहदेवं च धर्मराजं च पाण्डवम् ।
न्यवारयन्नरश्रेष्ठान्परिवार्य समन्ततः ॥ 6-105-10(43514)
ततो दुर्योधनो राजा शूराणां हयसादिनाम् ।
अयुतं प्रेषयामास पाण्डवानां निवारणे ॥ 6-105-11(43515)
तैः प्रविष्टैर्महावेगैर्गरुत्मद्भिरिवाहवे।
खुराहता धरा राजंश्चकम्पे च ननाद च ॥ 6-105-12(43516)
खुरशब्दश्च सुमहान्वाजिनां शुश्रुवे तदा।
महावंशवनस्येव दह्यमानस्य पर्वते ॥ 6-105-13(43517)
उत्पतद्भिश्च तैस्तत्र समुद्धूतं महद्रजः।
दिवाकररथं प्राप्य च्छादयामास भास्करम् ॥ 6-105-14(43518)
वेगवद्भिर्हयैस्तैस्तु क्षोभिता पाण्डवीक चमूः।
निपतद्भिर्महावेगैर्हंसैरिव महत्सरः ॥ 6-105-15(43519)
हेषतां चैव शब्देन न प्राज्ञायत किंचन ।
`अन्तर्दधे महाञ्शब्दस्तेन शब्देन मोहितः॥' 6-105-16(43520)
ततो युधिष्ठिरो राजा माद्रीपुत्रौ च पाण्डवौ।
प्रत्यघ्नंस्तरसा वेगं समरे हयसादिनाम् ॥ 6-105-17(43521)
उद्वृत्तस्य महाराज प्रावृट्कालेऽतिपूर्यतः।
पौर्णमास्यामम्बुवेगं यथा वेला महोदधेः ॥ 6-105-18(43522)
ततस्ते रथिनो राजञ्शरैः सन्नतपर्वभिः।
न्यकृन्तन्नुत्तमाङ्गानि शरेण हयसादिनाम् ॥ 6-105-19(43523)
ते निपेतुर्महाराज निहता दृढधन्विभिः ।
नागैरिव महानागा यथावद्गिरिगह्वरे ॥ 6-105-20(43524)
तेऽपि प्रासैः सुनिशितैः शरैः सन्नतपर्वभिः ।
न्यकृन्तन्नुत्तमाङ्गानि विचरन्तो दिशो दश ॥ 6-105-21(43525)
अभ्याहता हयारोहा ऋष्टिभिर्भरतर्षभ ।
अत्यजन्नुत्तमाङ्गानि फलानीव महाद्रुमाः ॥ 6-105-22(43526)
समादिनो हया राजंस्तत्रतत्र निषूदिताः।
पतिताः पात्यमानाश्च प्रत्यदृश्यन्त सर्वशः ॥ 6-105-23(43527)
वध्यमाना हयाश्चैव प्राद्रवन्त भयार्दिताः।
यथा सिंहं समासाद्य मृगाः प्राणपरायणाः ॥ 6-105-24(43528)
पाण्डवाश्च महाराज जित्वा शत्रून्महामृधे ।
दध्मुः शङ्खांश्च भेरीश्च ताडयामासुराहवे ॥ 6-105-25(43529)
ततो दुर्योधनो दीनो दृष्ट्वा सैन्यं पराजितम् ।
अब्रवीद्रतश्रेष्ठ मद्रराजमिदं वचः ॥ 6-105-26(43530)
एष पाण्डुसुतो ज्येष्ठो यमाभ्यां सहितो रणे ।
पश्यतां वो महाबाहो सेनां द्रावयति प्रभो ॥ 6-105-27(43531)
तं वारय महाबाहो वेलेव मकरालयम् ।
त्वं हि संश्रूयसेऽत्यर्थमसह्यबलविक्रमः ॥ 6-105-28(43532)
सञ्जय उवाच। 6-105-29x(4198)
पुत्रस्य तव तद्वाक्यं श्रुत्वा शल्यः प्रतापवान्।
स ययौ रथवंशेन यत्र राजा युधिष्ठिरः ॥ 6-105-29(43533)
तदापतद्वै सहसा शल्यस्य सुमहद्बलम् ।
महौघवेगं समरे वारयामास पाण्डवः ॥ 6-105-30(43534)
मद्रराजं च समरे धर्मराजो महारथः।
दशभिः सायकैस्तूर्णमाजघान स्तनान्तरे ।
नकुलः सहदेवश्च तं सप्तभिरजिह्नगैः ॥ 6-105-31(43535)
मद्रराजोऽपि तान्सर्वानाजघान त्रिभिस्त्रिभिः ।
युधिष्ठिरं पुनः षष्ट्या विव्याध निशितैः शरैः ॥ 6-105-32(43536)
माद्रीपुत्रौ च संभ्रान्तौ द्वाभ्यां द्वाभ्यामताडयत्।
ततो भीमो महाबहुर्दृष्ट्वा राजनमाहवे॥ 6-105-33(43537)
मद्रराजवशं प्राप्तं मृत्योरास्यगतं यथा।
अभ्यपद्यत संग्रामे युधिष्ठिरममित्रजित् ॥ 6-105-34(43538)
`आपतन्नेव भीमस्तु मद्रराजमताडयत्।'
सर्वपारशवैस्तीक्ष्णैर्नाराचैर्मर्मभेदिभिः ॥ 6-105-35(43539)
ततो भीष्मश्च द्रोणश्च सैन्येन महता वृतौ।
राजानमभ्यपद्येतामञ्जसा शरवर्षिणौ ॥ 6-105-36(43540)
ततो युद्धं महाघोरं प्रावर्तत सुदारुणम्।
अपरां दिशमास्थाय द्योतमाने दिवाकरे ॥ ॥ 6-105-37(43541)
इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि नवमदिवसयुद्धे पञ्चाधिकशततमोऽध्यायः ॥
Mahabharata - Bhishma Parva - Chapter Footnotes
6-105-8 तत इति। सैन्येनेति पूर्वस्मादनुकृष्यते। हयानां सैन्येन परिवार्य न्यवारयदिति तृतीयेनान्वयः ॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|